|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.59. अध्यायः 059
Mahabharata - Karna Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-59-0x(4982)(57933)
ततः प्रववृते भूयः सङ्ग्रामो राजसत्तम।
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः॥ 8-59-1(57934)
धनूंषि बाणान्परिघानसिपट्टसतोमरान्।
मुसलानि भुशुण्डीश्च शक्तिरिष्टिपरश्वथान्॥ 8-59-2(57935)
गदाः प्रासाञ्शितान्कुन्तान्भिंडिपालान्महाङ्कुशान्।
प्रगृह्य क्षिप्रमापेतुः परस्परजिघांसया॥ 8-59-3(57936)
बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत्।
पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान्॥ 8-59-4(57937)
तेन शब्देन महता संहृष्टाश्चक्रुराहवम्।
वीरा वीरैर्महाप्तोरकलहान्तं तितीर्षवः॥ 8-59-5(57938)
ज्यातलत्रधनुःशब्दाञ्शस्त्राणां च निपात्यताम्।
ताडितानां च पतता निनादांश्च पदातिनाम्॥ 8-59-6(57939)
बाणशब्दांश्च विविधाञ्शूराणां चाभिगर्जताम्।
श्रुत्वा गजा भृशं त्रेसुः पेतुर्मम्लुश्च सैनिकाः॥ 8-59-7(57940)
तेषां निनदतां चैव शस्त्रवर्षं च मुञ्चताम्।
बहूनाधिरथिर्वीरः प्रममाथेषुभिः परान्॥ 8-59-8(57941)
पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च।
साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम्॥ 8-59-9(57942)
योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे।
शिक्षितास्तमभिद्रुत्य परिवव्रुः समन्ततः॥ 8-59-10(57943)
ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन्।
विजगाहाण्डजाकीर्णां पद्मिनीमिव यूथपः॥ 8-59-11(57944)
द्विषत्सैन्यमवस्कन्द्य राधेयो धनुरुत्तमम्।
विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत्॥ 8-59-12(57945)
`हस्तिनः समहामात्रान्साश्वारोहान्हयानपि।
रथिनोऽप्येकबाणेन भ्रमतश्चावपातयत्'॥ 8-59-13(57946)
वर्म वा चर्म वाऽश्रित्य निपातमपि देहिनः।
विषेहुर्नास्य संस्पर्शं द्वितीयस्य पतत्त्रिणः॥ 8-59-14(57947)
वर्मयुक्तेषु देहेषु धनुषोऽस्यञ्शिताञ्शरान्।
मौर्व्या तलत्रे न्यहनत्कशया वाजिनो यथा॥ 8-59-15(57948)
पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमागतान्।
ममर्द तरसा कर्णः सिंहो मृगगणानिव॥ 8-59-16(57949)
ततः पाञ्चालपुत्रश्च द्रौपदेयाश्च मारिष।
यमौ च युयुधानश्च त्वरिताः कर्णमभ्ययुः॥ 8-59-17(57950)
तेषु व्यायच्छमानेषु कुरुपाञ्चालपाण्डुषु।
प्रियानसून्रणे त्यक्त्वा योधा जघ्नुः परस्परम्॥ 8-59-18(57951)
सुसन्नद्धाः कवचिनः सशिरस्त्राणभूषणाः।
गदाभिर्मुसलैश्चान्ये परिघैश्च महाबालाः॥ 8-59-19(57952)
समभ्यधावन्त भृशं कालदण्डैरिवोद्यतैः।
नर्दन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष॥ 8-59-20(57953)
ततो निजघ्नुरन्योन्यं पेतुश्चान्योन्यताडिताः।
वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षमायुधाः॥ 8-59-21(57954)
दन्तपूर्णैः सरुधिरैर्वक्रैर्दाडिमसन्निभैः।
जीवन्त इव चाप्येके तस्थुः शस्त्रौघबृंहिताः॥ 8-59-22(57955)
परश्वथैश्चाप्यपरे पट्टसैरसिभिस्तथा।
शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः॥ 8-59-23(57956)
ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा।
सञ्चकर्तुश्च जघ्नुश्च राजन्योधा महारणे॥ 8-59-24(57957)
पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः।
क्षरन्तः स्वरसं रक्तं प्रकृत्ताश्चन्दना इव॥ 8-59-25(57958)
रथै रथा विनिहता हस्तिभिश्चापि हस्तिनः।
नरैर्नरा हताः पेतुरश्वाश्चाश्वैः सहस्रशः॥ 8-59-26(57959)
ध्वजाः शिरांसि च्छिन्नाः पेतुर्महीतले॥
`वध्यतां दारुणाः शब्दाः पततां स्तनतामपि। 8-59-27(57960)
क्षुरैर्भल्लार्धचन्द्रैश्च च्छिन्नाः पेतुर्महीतले॥
नराश्वेभरथानां हिनराश्वेभरथैस्तथा'॥ 8-59-28(57961)
नरांश्च नागांश्च रथान्हयान्ममृदुराहवे॥ 8-59-29(57962)
अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः।
सपताकाध्वजाः पेतुर्विशीर्णा इव पर्वताः॥ 8-59-30(57963)
पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा।
हताश्च हन्यमानाश्च पतिताश्चैव सर्वशः॥ 8-59-31(57964)
अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः।
सादिभिः पत्तिसङ्घाश्च निहता युधि शेरते॥ 8-59-32(57965)
मृदितानीव पद्मानि प्रम्लाना इव च स्रजः।
हतानां वदनान्यासन्गात्राणि च महाहवे॥ 8-59-33(57966)
रूपाण्यत्यर्थकान्तानि द्विरदाश्वनृणां नृप।
समुन्नानीव वस्त्राणि ययुर्दुर्दुर्शतां पराम्॥ ॥ 8-59-34(57967)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनषष्टितमोऽध्यायः॥ 59 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-59-4 द्यांस्वर्गम्। वियदन्तरिक्षम्॥ 8-59-11 अण्डजैर्जलपक्षिभिः सारसादिभिराकीर्णां व्याप्ताम्॥ 8-59-15 मौर्व्या मौर्वीच्युतैः शरैर्बाणैस्तलत्रे ज्याघातवारणस्थाने न्यहनत्॥ 8-59-18 व्यायच्छमानेषु यतमानेषु॥ 8-59-19 परिघैर्हता इति शेषः। समभ्यधावन्तेत्युत्तरेणान्वयः॥ 8-59-21 मस्तिष्कं शिरोभागस्थमांसपिण्डः॥ 8-59-23 परश्वथैस्ततक्षुः। पट्टशैरसिभिश्च चिच्छिदुः। शक्तिभिंर्बिभिदुः। भिन्दिपालैश्चिक्षिपुः। नखरैः सञ्चकर्तुः। प्रासतोमरैर्जघ्नुः॥ 8-59-25 चन्दना रक्तचन्दनाः॥ 8-59-33 पद्मानीव बदनानि। स्रजइव गात्राणि॥ 8-59-34 समुन्नानि क्षारक्लिन्नानि मलिनानि॥ 8-59-59 एकोनषष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|